top of page

JAI SHRI RAM

SHRIMAD BHAGWAD GEETA

श्रीमद्भगवद्गीता

Gemini_Generated_Image_j1jgkqj1jgkqj1jg.png


॥ श्रीपरमात्मने नमः ॥

 

श्रीमद्भगवद्गीता

 

अथ प्रथमोऽध्यायः

धृतराष्ट्र उवाच

 

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । 

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ।।१ 

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । 

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२ 

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । 

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३ 

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। 

युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। 

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । 

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥४-६ 

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । 

नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते ॥७ 

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । 

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८ 

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । 

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९ 

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । 

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१० 

अयनेषु च सर्वेषु यथाभागमवस्थिताः । 

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११ 

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः । 

सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् ।।१२ 

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । 

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३ 

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । 

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ।॥१४ 

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। 

पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः ॥१५ 

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । 

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६ 

काश्यश्च परमेष्वासः शिखण्डी च महारथः । 

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । 

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ॥१७ -१८  

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । 

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९ 

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । 

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२० -२१ 

यावदेतान्निरीक्षेऽहं योद्धकामानवस्थितान्। 

कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥२२ 

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । 

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३ 

सञ्जय उवाच

 

एवमुक्तो हृषीकेशो गुडाकेशेन भारत। 

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । 

उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ।।२४ -२५ 

तत्रापश्यत्स्थितान् पार्थः पितॄनथ पितामहान् । 

आचार्यान्मातुलान्भ्रातृन्पुत्रान्यौत्रान्सखींस्तथा ।। 

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 

सीदन्ति मम गात्राणि मुखं च परिशुष्यति। 

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२७ -२८ -२९ 

गाण्डीवं स्त्रंसते हस्तात्त्वक्चैव परिदह्यते । 

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥३० 

निमित्तानि च पश्यामि विपरीतानि केशव। 

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१ 

न काङ्क्ष विजयं कृष्ण न च राज्यं सुखानि च। 

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥३२ 

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । 

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३ 

आचार्याः पितरः पुत्रास्तथैव च पितामहाः । 

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ।।३४ 

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । 

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।।३५ 

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । 

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।।३६ 

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्। 

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७ 

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । 

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ 

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । 

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३८ - ३९

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । 

धर्मे नष्टे कुलं कृत्स्त्रमधर्मोऽभिभवत्युत ।॥ ४० 

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । 

स्त्रीषु दुष्टासु वाष्र्णेय जायते वर्णसङ्करः ।। ४१ 

सङ्करो नरकायैव कुलघ्नानां कुलस्य च। 

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ 

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । 

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ 

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । 

नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥४४ 

अहो बत महत्पापं कर्तुं व्यवसिता वयम्। 

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५ 

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । 

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६ 

सञ्जय उवाच

 

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । 

विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७ 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥

bottom of page