top of page

JAI SHRI RAM

SHANI STROT OF DASHRATH

​दशरथ कृत शनि स्त्रोत (हिन्दी अर्थ सहित)

file_00000000b9ac7208a1e1d57da5edf8ff.png

नमः कृष्णाय नीलाय शितिकण्ठ निभाय च ।

नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥1॥

नमो निर्मास् देहाय दीर्घश्मश्रुजटाय च ।

नमो विशालनेत्राय शुष्कोदर भैयाकृते ॥2॥

नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः ।

नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥3॥

नमस्ते कोट्रराक्षाय दुर्नरीक्ष्याय वै नमः ।

नमो घोराय रौद्राय भीषणाय कपालिने ॥4॥

नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते ।

सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च ॥5॥

अधोदृष्टः नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ।

नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तुते ॥6॥

तपसा दग्ध-देहाय नित्यं योगरताय च ।

नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥7॥

ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज-सूनवे ।

तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥8॥

देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगाः ।

त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥9॥

प्रसाद कुरु मे सौरे ! वारदो भव भास्करे ।

एवं स्तुतस्तदा सौरिग्रहराजो महाबलः ॥10॥

bottom of page