top of page

श्रीपरमात्मने नमः

अथ श्रीविष्णुसहस्त्रनामस्तोत्रम्

 

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । 

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥

नमः समस्तभूतानामादिभूताय भूभृते । 

अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥

वैशम्पायन उवाच

 

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । 

युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत । १ ।

युधिष्ठिर उवाच

 

किमेकं दैवतं लोके किं वाप्येकं परायणम् । 

स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्। २।

को धर्मः सर्वधर्माणां भवतः परमो मतः । 

किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् । ३ ।

भीष्म उवाच

 

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । 

स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः । ४ ।

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । 

ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च।५।

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । 

लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् । ६ ।

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । 

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् । ७।

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः। 

यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा । ८ ।

परमं यो महत्तेजः परमं यो महत्तपः । 

परमं यो महद्ब्रह्म परमं यः परायणम्। ९ ।

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । 

दैवतं देवतानां च भूतानां योऽव्ययः पिता । १० । 

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । 

यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये । ११ । 

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते। 

विष्णोर्नामसहस्त्रं मे शृणु पापभयापहम् । १२ ।

यानि नामानि गौणानि विख्यातानि महात्मनः । 

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये । १३।

ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । 

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ।१४।

पूतात्मा परमात्मा च मुक्तानां परमा गतिः । 

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च । १५ ।

योगो योगविदां नेता प्रधानपुरुषेश्वरः । 

नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः । १६ ।

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।१७।

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । 

अनादिनिधनो धाता विधाता धातुरुत्तमः । १८ ।

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । 

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः । १९ ।

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । 

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् । २० ।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । 

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः । २१।

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । 

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्। २२।

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । 

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः । २३ ।

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । 

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः । २४।

वसुर्वसुमनाः सत्यः समात्मासम्मितः समः । 

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः । २५ ।

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । 

अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः । २६ ।

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । 

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः । २७।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

चतुरात्मा चतुर्व्यहश्चतुर्दष्ट्रश्चतुर्भुजः । २८ ।

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । 

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः । २९ ।

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । 

अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः । ३० ।

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । 

अतीन्द्रियो महामायो महोत्साहो महाबलः । ३१ ।

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । 

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् । ३२।

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः । ३३ ।

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । 

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः । ३४।

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः । 

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा। ३५।

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । 

निमिषोऽनिमिषः स्त्रग्वी वाचस्पतिरुदारधीः । ३६ ।

अग्रणीर्यामणीः श्रीमान्न्यायो नेता समीरणः ।

सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात् । ३७ ।

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।

अहः संवर्तको वह्निरनिलो धरणीधरः । ३८ ।

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।

सत्कर्ता सत्कृतः साधुर्जनुर्नारायणो नरः । ३९।

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।

सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः । ४० ।

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । 

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ।४१ ।

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । 

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः । ४२ ।

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । 

ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः । ४३ ।

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।

औषधं जगतः सेतुः सत्यधर्मपराक्रमः ।४४।

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः । ४५ ।

युगादिकृद्युगावर्ती नैकमायो महाशनः । 

अदृश्योऽव्यक्तरूपश्च सहस्त्रजिदनन्तजित् । ४६ ।

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । 

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः । ४७ ।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । 

अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः । ४८ ।

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।

वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः । ४९।

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । 

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।५०।

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।

महर्द्धिऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः । ५१ ।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः । ५२ ।

विक्षरो रोहितो मार्गों हेतुर्दामोदरः सहः। 

महीधरो महाभागो वेगवानमिताशनः । ५३।

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । 

करणं कारणं कर्ता विकर्ता गहनो गुहः । ५४।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।

परद्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः । ५५ । 

रामो विरामो विरजो मार्गो नेयो नयोऽनयः । 

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः । ५६।

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । 

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः । ५७।

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । 

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः । ५८ ।

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्। 

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः । ५९।

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः । ६०।

bottom of page